कार्तिकेय बहु फलदायक स्तुति
ॐ अभीष्ट सिद्धि मे देहि
शरणागत वत्सले
भक्त्या निवेदितम् तुम्भ्यम्
कार्तिकेय नमस्तुते ॥१॥
श्री गंगा गर्भ सम्भूतो
सर्व देव नमस्कृतः
तारकासुर संहारी
चन्द्रशेखर नन्दनः ॥२॥
कार्तिकेय महाभागः
सप्त कलपान्त जीविनः
आयुरारोग्यम् सिध्यर्थ
सुब्रह्मण्यं नमोस्तुते ॥३॥
वरामयो साक्षाद्
द्विभुजः शिखिवाहनः
किरीट कुण्डली देवो
दिव्य भरण भूषितः ॥४॥
सप्तर्षि दारजः स्कन्दः
सेनधिप महाबलः
रुद्र अग्निज षडवक्त्रः
गंगा गर्भ नमस्तुते ॥५॥
मयूर वाहनः स्कन्दः
गौरी सुत षडाननः
कार्तिकेय महाबाहु
दयां कुरु दयानिधे ॥६॥
कार्तिकेय महाबाहो
गौरी हृदय नन्दनः
कुरुमे दीर्घमायुर्माम्
त्वामहम् शरणं गतः ॥७॥
श्री स्कन्दः शंकरः पुत्रः
सत्यवादी जितेन्द्रियः
रम्यं सु मुख दिव्यं
सर्वसौख्यं करं शुभं ॥८॥
दुख दुर्भाग्य नाशाय
देव देव जगद् गुरो
भक्तानामभयं कर्ताः
गिरिजाया प्रियं सुतम् ॥९॥
कार्तिकेय नमस्तुभ्यम्
भक्तानाम् मार्ति नाशनम्
सर्व व्याधि प्रशपनमं
त्वामहम् शरणागतम् ॥१०॥
सर्वदा सर्व कार्येषु
निर्विघ्न साध्येन्मम्
शान्ति करोतु सततं
गौरी पुत्र नमोस्तुते ॥११॥
मयूरो रोमभिः मन्द्रै
मयूर प्रिय वाहनः
प्रियत्तां देव सेनानिम्
सम्पादयतु हृद्गतम् ॥१२॥
कार्तिकेय सुर श्रेष्ट
मयूर प्रिय वाहनः
कल्याणं कुरु मे देव
वरदो गौरी नन्दनः ॥१३॥
उमा कोभल हस्ताब्ज
सम्भावित ललाटकम्
हिरण्य कुन्डलं वन्दे
त्राताभव भवार्णवान् ॥१४॥
नीलकन्ठ महाभागः
सुब्रह्म्ण्य सुवाहनः
सेनानिस्तारको हन्ता
सेनान्येते नमो नमः ॥१५॥
सुब्रह्म्ण्यं महाभागः
सुरासुर नमस्कृतः
देव सेनापते स्वामिन्
मयूर वर वाहनः ॥१६॥
॥ क्षमा प्रार्थना ॥
अज्ञान विस्मृत्यै भ्रान्त्या
यन्नूनमधिकं कृतं
क्षम सत्वं क्षम सत्वं
कार्तिकेय क्षमस्वमे ॥




















































